ध्येयप्रवण साधक

ध्येयप्रवण साधक, कार्यपथे साधय
मृदु हसन्‌‍, मधु किरन्‌‍, मातरं सदा स्मरन्‌‍ ॥ध्रु.॥

जीवनं न शाश्वतं, वैभवं न हि स्थिरम्‌‍
स्वार्थलेपनं विना, सत्कृतं हि तत्‌‍ चिरम्‌‍
सरलता स्वजीवने (तान)
चिंतने उदात्तता (तान)
समाजपोषिता: वयं, कृतज्ञभाव रक्षयन्‌‍ ॥१॥

या च मनसि भावय, या च शिरसि धारय
मातृभूमि सा सदा, हृदन्तरे सुपूजय
प्रेमरूपिणी पदे (तान)
जीवितं समर्पितम्‌‍ (तान)
प्रसन्नवृत्ति – निर्भया: वयं भवेम संगता: ॥२॥

पूर्वजकृतं स्मर, सुतेज धैर्य संगरम्‌‍
वीरव्रत स्वीकुरू, सिंहकुल विभूषण !
सन्तु कष्टकोटयो : (तान)
भवतु विघ्नवर्षणम्‌‍ (तान)
अजरो भव, अमरो भव, अपराजित सर्वदा ॥३॥