प्रसादे सर्वदुःखानां हानिरस्योपजायते|
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते॥
(गीता-2.65)
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया|
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः॥
(गीता-4.34)
बन्धुरात्माऽऽत्मनस्तस्य, येनात्मैवात्मना जित:|
अनात्मनस्तु शत्रुत्वे, वर्तेतात्मैव शत्रुवत्॥
(गीता-6.6)
युञ्जन् एवं सदात्मानं, योगी नियतमानसः |
शान्तिं निर्वाणपरमां, मत्संस्थाम् अधिगच्छति॥
(गीता-6.15)
अभयं सत्त्वसंशुद्धि:, ज्ञानयोगव्यवस्थिति:|
दानं दमश्च यज्ञश्च, स्वाध्यायस्तप आर्जवम्॥
(गीता-16.1)
अहिंसा सत्यमक्रोध:, त्याग: शान्तिरपैशुनम्|
दया भूतेष्वलोलुप्त्वं मार्दवं ऱ्हीरचापलम्॥
(गीता-16.2)
तेज: क्षमा धृति: शौचम्, अद्रोहो नातिमानिता|
भवन्ति सम्पदं दैवीम्, अभिजातस्य भारत॥
(गीता-16.3)
देवद्विजगुरुप्राज्ञ-पूजनं शौचमार्जवम्|
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥
(गीता-17.14)
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्|
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥
(गीता-17.15)
मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः|
भावसंशुद्धिरित्येतत्, तपो मानसमुच्यते॥
(गीता-17.16)
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः|
अफलाकांक्षिभिर्युक्तैः सात्त्विकं परिचक्षते॥
(गीता-17.17)
सद्भावे साधुभावे च, सदित्येतत्प्रयुज्यते|
प्रशस्ते कर्मणि तथा, सच्छब्दः पार्थ युज्यते॥
(गीता-17.26)