शुभचिन्तनमस्तु अद्य जन्मदिने ते|
नन्दाम: गायाम: जन्मदिने ते॥ध्रु.॥
दिने दिने वर्धस्व प्राप्नुहि यश:
तव मार्गे अस्तु सदा धवलप्रकाश:
अभिनन्दनमस्तु अद्य जन्मदिने ते॥१॥
आयुष्मन् शतं जीव चिरंजीव रे
लोकमित्रमिति कीर्तिस्तव सदाऽस्तु रे
निरामयं निर्व्याजं हसितमस्तु ते॥२॥
सर्वेषाम् अद्याशी: सुखं प्राप्नुहि
सद्गुणसम्पद् लसतु सर्वदा त्वयि
आशीर्युत हस्तो मे अस्तु मस्तके ॥३॥